षट्त्रिचतुर्भ्यो या ज्ञालादिर् विभक्तिः तदन्ते पदे उपोत्तमं उदात्तं भवति। त्रिप्रभृतीनाम् अन्त्यम् उत्तमम्, तत्समीपे च यत् तदुपोत्तमम्। पञ्चभिः तपस् तपति। सप्तभिः पराञ् जयति। तिसृभिश्च वहसे त्रिंशता। चत्रुभिः। ज्ञलि इति किम्? पञ्चानाम्। सप्तानाम्। उपोत्तमम् इति किम्? षड्भिः। षड्भ्यः।
"त्रिप्रभृतीनामन्त्यमुत्तमम्()" इति। उत्तमशब्दस्याव्युत्पन्नस्येह ग्रहणम्()।
स च स्वभावात्? त्रिप्रभृतीनामन्त्यमाहेति कृत्वा।
"तत्समीपे यत्? तदुपोत्तमम्()" इति। "अव्ययं विभक्ति"
२।१।६ इत्यादिनाऽव्ययीभावः॥